|
|
 |
 |
|
|
१ आदिपर्व.jpg)
॥ श्रीः ॥
1.86. अध्यायः 086
Mahabharata - Adi Parva - Chapter Topics
स्वर्गाच्च्युतस्य ययातेरष्टकादियज्ञभूमिं प्रत्यागमननिमित्तकथनम्॥ 1 ॥ अष्टकप्रतर्दनयोर्ययातिना संवादः॥ 2 ॥
Mahabharata - Adi Parva - Chapter Text
अष्टक उवाच। 1-86-0x(526)(3771)
कतरस्त्वनयोः पूर्वं देवानामेति साम्यताम्।
उभयोर्धावतो राजन्सूर्याचन्द्रमसोरिव॥ 1-86-1(3772)
ययातिरुवाच। 1-86-2x(527)
अनिकेतो गृहस्थेषु कामवृत्तेषु संयतः।
ग्राम एव वसन्भिक्षुस्तयोः पूर्वतरं गतः॥ 1-86-2(3773)
अप्राप्य दीर्घमायुस्तु यः प्राप्तो विकृतिं चरेत्।
तप्यते यदि तत्कृत्वा चरेत्सोऽन्यत्तपस्ततः॥ 1-86-3(3774)
पापानां कर्मणां नित्यं बिभीयाद्यस्तु मानवः।
सुखमप्याचरन्नित्यं सोऽत्यन्तं सुखमेधते॥ 1-86-4(3775)
यद्वै नृशंसं तदसत्यमाहु-
र्यः सेवते धर्ममनर्थबुद्धिः।
अस्वोऽप्यनीशश्च तथैव राजं-
स्तदार्जवं स समाधिस्तदार्यम्॥ 1-86-5(3776)
अष्टक उवाच। 1-86-6x(528)
केनासि हूतः प्रहितोऽसि राज-
न्युवा स्रग्वी दर्शनीयः सुवर्चाः।
कुतऋ आयातः कतरस्यां दिशि त्व-
मुताहोस्वित्पार्थिवं स्थानमस्ति॥ 1-86-6(3777)
ययातिरुवाच। 1-86-7x(529)
इमं भौमं नरकं क्षीणपुण्यः
प्रवेष्टुमुर्वीं गगनाद्विप्रहीणः।
`विद्वांश्चैवं मतिमानार्यबुद्धि-
र्ममाभवत्कर्मलोक्यं च सर्वम्'।
उक्त्वाऽहं वः प्रपतिष्याम्यनन्तरं
त्वरन्ति मां लोकपा ब्राह्मणा ये॥ 1-86-7(3778)
सतां सकाशे तु वृतः प्रपात-
स्ते सङ्गता गुणवन्तश्च सर्वे।
शक्राच्च लब्धो हि वरो मयैष
पतिष्यता भूमितलं नरेन्द्र॥ 1-86-8(3779)
अष्टक उवाच। 1-86-9x(530)
पृच्छामि त्वां मा प्रपत प्रपातं
यदि लोकाः पार्थिव सन्ति मेऽत्र।
यद्यन्तरिक्षे यदि वा दिवि स्थिताः
क्षेत्रज्ञं त्वां तस्य धर्मस्य मन्ये॥ 1-86-9(3780)
ययातिरुवाच। 1-86-10x(531)
यावत्पृथिव्यां विहितं गवाश्वं
सहारण्यैः पशुभिः पार्वतैश्च।
तावल्लोका दिवि ते संस्थिता वै
तथा विजानीहि नरेन्द्रसिंह॥ 1-86-10(3781)
अष्टक उवाच। 1-86-11x(532)
तांस्ते ददामि मा प्रपत प्रपातं
ये मे लोका दिवि राजेन्द्र सन्ति।
यद्यन्तरिक्षे यदि वा दिवि श्रिता-
स्तानाक्रम क्षिप्रमपेतमोहः॥ 1-86-11(3782)
ययातिरुवाच। 1-86-12x(533)
नास्मद्विधोऽब्राह्मणो ब्रह्मविच्च
प्रतिग्रहे वर्तते राजमुख्य।
यथा प्रदेयं सततं द्विजेभ्य-
स्तथाऽददं पूर्वमहं नरेन्द्र॥ 1-86-12(3783)
नाब्राह्मणः कृपणो जातु जीवे-
द्या चाप्यस्याऽब्राह्मणी वीरपत्नी।
सोऽहं नैवाकृतपूर्वं चरेयं
विधित्समानः किमु तत्र साधुः॥ 1-86-13(3784)
प्रतर्दन उवाच। 1-86-14x(534)
पृच्छामि त्वां स्पृहणीयरूप
प्रतर्दनोऽहं यदि मे सन्ति लोकाः।
यद्यन्तरिक्षे यदि वा दिवि श्रिताः
क्षेत्रज्ञं त्वां तस्य धर्मस्य मन्ये॥ 1-86-14(3785)
ययातिरुवाच। 1-86-15x(535)
सन्ति लोका बहवस्ते नरेन्द्र
अप्येकैकः सप्तसप्ताप्यहानि।
मधुच्युतो घृतपृक्ता विशोका-
स्ते नान्तवन्तः प्रतिपालयन्ति॥ 1-86-15(3786)
प्रतर्दन उवाच। 1-86-16x(536)
तांस्ते ददानि मा प्रपत प्रपातं
ये मे लोकास्तव ते वै भवन्तु।
यद्यन्तरिक्षे यदि वा दिवि श्रिता-
स्तानाक्रम क्षिप्रमपेतमोहः॥ 1-86-16(3787)
ययातिरुवाच। 1-86-17x(537)
न तुल्यतेजाः सुकृतं कामयेत
योगक्षेमं पार्थिव पार्थिवः सन्।
दैवादेशादापदं प्राप्य विद्वां-
श्चरेन्नृशंसं न हि जातु राजा॥ 1-86-17(3788)
धर्म्यं मार्गं यतमानो यशस्यं
कुर्यान्नृपो धर्ममवेक्षमाणः।
न मद्विधो धर्मबुद्धिः प्रजान-
न्कुर्यादेवं कृपणं मां यथाऽत्थ॥ 1-86-18(3789)
कुर्यादपूर्वं न कृतं यदन्यै-
र्विधित्समानः किमु तत्र साधु।
`धर्माधर्मौ सुविनिश्चित्य सम्य-
क्कार्याकार्येष्वप्रमत्तश्चरेद्यः॥ 1-86-19(3790)
स वै धीमान्सत्यसन्धः कृतात्मा
राजा भवेल्लोकपालो महिम्ना।
यदा भवेत्संशयो धर्मकार्ये
कामार्थौ वा यत्र विन्दन्ति सम्यक्॥ 1-86-20(3791)
कार्यं तत्र प्रथमं धर्मकार्यं
यन्नो विरुध्यादर्थकामौ स धर्मः 1-86-21(3792)
वैशम्पायन उवाच।'
ब्रुवाणमेवं नृपतिं ययातिं
नृपोत्तमो वसुमानब्रवीत्तम्॥ ॥ 1-86-21x(538)
इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि षडशीतितमोऽध्यायः॥ 86 ॥
Mahabharata - Adi Parva - Chapter Footnotes
1-86-1 अनयोः कुटीचकबहूदकयोः॥ 1-86-2 गृहस्थेषु शरीरस्थेष्विन्द्रियेषु॥ 1-86-3 दीर्घमायुः प्राप्तः सिद्धिमप्राप्य यो विकृतिं पापं चरेत्। तत्कृत्वा तप्येत यदि सोन्यत्तपः प्रायश्चित्तं चरेत्॥ 1-86-4 कर्मणां सकाशात् बिभीयात्। सुखं यथेच्छम्॥ 1-86-5 नृशंसं हिंस्रं यत्कर्म तदसत्यं असत्संबन्धि। अनर्थबुद्धिः फलेच्छारहितः। अनीशः ईशत्वबुद्धिरहितः॥ 1-86-6 केन कतरस्यां दिशि प्रहिहितोसीत्यन्वयः॥ 1-86-7 विप्रहीणश्च्युतः। उक्त्वा आपृच्छ्य। वो युष्मान्। ब्राह्मणाः ब्रह्मनियुक्ताः॥ 1-86-12 अब्राह्मणः ब्राह्मणेतरः ब्राह्मणस्यैव भिक्षावृत्तित्वात्। ब्रह्मविद्वेदार्थवेत्। न वर्तते न प्रवर्तते। प्रत्युत पूर्वमददमेव॥ 1-86-13 कृपणो याचकः। या चाप्यस्य क्षत्रियस्य अब्राह्मणी क्षत्रिया सापि कृपणा नजीवेत्। तद्विधित्समानः कर्तुमिच्छुः तत्र तदा किमु साधुः स्यां अपितु नैवेत्यर्थः॥ 1-86-15 प्रत्येकं सप्तसप्ताप्यहानि सेविताः सन्तो नान्तवन्तः। मधुच्युतः सुखस्रवः। घृतपृक्तास्तेजोयुक्ताः। ते त्वां प्रतिपालयन्ति प्रतीक्षन्ते॥ 1-86-17 नृशंसं निन्द्यं॥ 1-86-19 अन्यै राजभिर्यत्प्रतिग्रहाख्यं न कृतं तदपूर्वम्॥ षडशीतितमोऽध्यायः॥ 86 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|